|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.15. अध्यायः 015
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति भगवन्महिमप्रतिपादकव्यासवासुदेवसंवादानुवादः॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
मद्रराजस्य संवादं व्यासस्य च महात्मनः॥ 13-15-1(81745)
वैताने कर्मणि तते कुन्तीपुत्र यथा पुरा।
उक्तः स भगवान्यज्ञे तथा तत्राशृणोद्भवान्॥ 13-15-2(81746)
मद्रराज उवाच। 13-15-3x(6781)
कानि तीर्थानि भगवन्फलार्थाश्चेह केऽऽश्रमाः।
क इज्यते कश्च यज्ञः को यूपः क्रमते च कः॥ 13-15-3(81747)
कश्चाध्वरे शस्यते गीतिशब्दैः
कश्चाध्वरे गीयते वल्गुभाषैः।
को ब्रह्मशब्दैः स्तुतिभिः स्तूयते च
कस्येह वै हविरध्वर्यवः कल्पयन्ति॥ 13-15-4(81748)
वर्णाश्रमे गोफले कश्च सोमे
कश्चोंकारः कश्च वेदार्थमार्गः।
पृष्टस्तन्मे ब्रूहि सर्वं महर्षे
लोकज्येष्ठं कस्य विज्ञानमाहुः॥ 13-15-5(81749)
द्वैपायन उवाच। 13-15-6x(6782)
लोकज्येष्ठं यस्य विज्ञानमाहु
र्योनिज्येष्ठं यस्य वदन्ति जन्म।
पूतात्मानो ब्राह्मणा वेदमुख्या
अस्मिन्प्रश्नो दीयतां केशवाय॥ 13-15-6(81750)
ब्राह्मण उवाच। 13-15-7x(6783)
बालो जात्या क्षत्रधर्मार्थशीलो
जातो देवक्यां शूरपुत्रेण वीर।
वेत्तुं वेदानर्हते क्षत्रियो वै
दाशार्हाणामुत्तमः पुष्कराक्षः॥ 13-15-7(81751)
वासुदेव उवाच। 13-15-8x(6784)
पाराशर्य ब्रूहि यद्ब्राह्मणेभ्यः
प्रीतात्मा वै ब्रह्मकल्पः सुमेधाः।
पृष्टो यज्ञार्थं पाण्डवस्यातितेजा
एतच्छ्रेयस्तस्य लोकस्य चैव॥ 13-15-8(81752)
व्यास उवाच। 13-15-9x(6785)
उक्तं वाक्यं यद्भवान्मामवोच-
त्प्रश्नं चित्रं नाहमत्रोत्सहेऽद्य।
छेत्तुं विस्पष्टं तिष्ठति त्वद्विधे वै
लोकज्येष्ठे विश्वरूपे सुनाभे॥ 13-15-9(81753)
वासुदेव उवाच। 13-15-10x(6786)
तत्त्वं वाक्यं ब्रूहि यत्त्वं महर्षे
यस्मिन्कृष्णः प्रोच्यते वै यथावत्।
प्रीतस्तेऽहं ज्ञानशक्त्या यथाव-
त्तस्मान्निर्देशे कर्मणां ब्रूहि सिद्धिम्॥ 13-15-10(81754)
वैशम्पायन उवाच। 13-15-11x(6787)
उक्तवाक्ये सत्तमे यादवानां
कृष्णो व्यासः प्राञ्जलिर्वासुदेवम्।
विप्रैः सार्धं पूजयन्देवदेवं
कृष्णं विष्णुं वासुदेवं बभाषे॥ 13-15-11(81755)
व्यास उवाच। 13-15-12x(6788)
13-15-12(81756)
आनन्त्यं ते विश्वकर्मंस्तवैवं
रूपं पौराणं शाश्वतं च ध्रुवं च।
कस्ते बुद्ध्येद्वेदवादेषु चैत-
ल्लोके ह्यस्मिञ्शासकस्त्वं पितेव॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|